(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.127. अध्यायः 127
Mahabharata - Vana Parva - Chapter Topics
लोमशेन युधिष्ठिरंप्रति मान्धातृपदप्रवृत्तिनिमित्तकथनपूर्वकं मांदातृचरित्रकीर्तनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

युधिष्ठिर उवाच। 3-127-0x(2113)(20794)
मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः।
कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः ॥ 3-127-1(20795)
कथं चैनां परां ख्यातिं प्राप्तवानमितद्युतिः।
यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः ॥ 3-127-2(20796)
एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः।
`सत्यकीर्तेर्हि मान्धातुः कथ्यमानं त्वयाऽनघ' ॥ 3-127-3(20797)
यथा मान्धातृशब्दश्च तस्य शक्रसमद्युते।
जन्म चाप्रतिवीर्यस् कुशलो ह्यसि भाषितुम् ॥ 3-127-4(20798)
लोमश उवाच। 3-127-5x(2114)
शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः।
यथा मान्धातृशब्दो वै लोकेषु परिगीयते ॥ 3-127-5(20799)
इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः।
सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः ॥ 3-127-6(20800)
अश्वमेधसहस्रं च प्राप्य धर्मभृतांवरः।
अन्यैश्च क्रतुभिर्मुख्यैरयजत्स्वाप्तदक्षिणैः ॥ 3-127-7(20801)
अनपत्यस्तु राजर्षिः स महात्मा महाव्रतः।
मन्त्रिष्वाधाय तद्राज्यं वनित्यो बभूव ह।
शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मवान् ॥ 3-127-8(20802)
स कदाचिन्नृपो राजन्नुपवासेन दुःखितः।
पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः ॥ 3-127-9(20803)
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः।
इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् ॥ 3-127-10(20804)
संभृतो मन्त्रपूतेन वारिणा कलशो महान्।
तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः ॥ 3-127-11(20805)
यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम्।
`तद्वारि विहितं राजन्यस्मिन्नासीत्सुसंस्कृतम्'।
तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः ॥ 3-127-12(20806)
रात्रिजागरणाच्छ्रान्तान्सौद्युम्निः समतीत्य तान्।
शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः।
तं प्रविश्याश्रमं शान्तः पानीयं सोऽभ्ययाचत ॥ 3-127-13(20807)
तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा।
नाश्रौषीत्कश्चन तदा शकुनेरिव वाशतः ॥ 3-127-14(20808)
ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः।
अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् ॥ 3-127-15(20809)
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः।
निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा ॥ 3-127-16(20810)
ततस्ते प्रत्यबुध्यन्त मुनयः सतपोधनाः।
निस्तोयं तं च कलशं ददृशुः सर्व एव ते ॥ 3-127-17(20811)
कस्य कर्मेदमिति ते पर्यपृच्छन्समागताः।
युवनाश्वो ममेत्येवं सत्यं समभिपद्यत ॥ 3-127-18(20812)
न युक्तमिति तं प्राह भगवान्भार्गवस्तदा।
सुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः ॥ 3-127-19(20813)
मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम्।
पुत्रार्थं तव राजर्षे महाबलपराक्रम ॥ 3-127-20(20814)
महाबलो महावीर्यस्तपोबलसमन्वितः।
यः शक्रमपि वीर्येण गमयेद्यमसादनम् ॥ 3-127-21(20815)
अनेन विधिना राजन्मयैतदुपपादितम्।
अब्भक्षणं त्वया राजन्न युक्तं कृतमद्य वै ॥ 3-127-22(20816)
न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽनय्था।
नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि ॥ 3-127-23(20817)
पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः।
आपस्त्वया महाराज मत्तपोवीर्यसंभृताः ॥ 3-127-24(20818)
ताभ्यस्त्वमात्मना पुत्रमीदृशं जनयिष्यसि।
विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् ॥ 3-127-25(20819)
यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान्।
`न च प्राणैर्महाराज वियोगस्ते भविष्यति' ॥ 3-127-26(20820)
मा खिदस्त्वं हि राजेनद्र दैवं हि बलवत्तरम्'।
गर्भधारणजं वाऽपि न खेदं समवाप्स्यसि ॥ 3-127-27(20821)
ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः।
वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इव स्थितः ॥ 3-127-28(20822)
निश्चक्राम महातेजा न च तं मृत्युराविशत्।
युवनाश्वं नरपतिं तदद्भुतमिवाभवत् ॥ 3-127-29(20823)
ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत्।
ततो देवा महेन्द्रं तमपृच्छन्धास्यतीति किम् ॥ 3-127-30(20824)
प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे।
मामयं धास्यतीत्येवं भाषिते चैव वज्रिणा।
मांधातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः ॥ 3-127-31(20825)
प्रदेशिनीं शक्रदत्तामाखाद्य स शिशुस्तदा।
अवर्धत महातेजाः किष्कून्राजंस्त्र्योदश ॥ 3-127-32(20826)
वेदास्तं सधनुर्वेदा दिव्यान्स्त्राणि चेश्वरम्।
उपतस्थुर्महाराजं ध्यातमात्राणि सर्वशः ॥ 3-127-33(20827)
धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये।
अभेद्यं कवचं चैव सद्यस्तमुपशिश्रियुः ॥ 3-127-34(20828)
सोऽभिषिक्तो भगवता स्वयं शक्रेण भारत।
धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः ॥ 3-127-35(20829)
तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः।
रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे ॥ 3-127-36(20830)
तस्येयं वसुसंपूर्णा वसुधा वसुधाधिप।
तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ॥ 3-127-37(20831)
चितचैत्यो महातेजा धर्मान्प्राप्य च पुष्कलान्।
शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः ॥ 3-127-38(20832)
एकाह्ना पृथिवी तेन धर्मनित्येन धीमता।
विजिता शासनादेव सरत्नाकरपत्तना ॥ 3-127-39(20833)
तस्य चैत्यैर्महाराज क्रतूनां दक्षिणावताम्।
चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम् ॥ 3-127-40(20834)
तेन पद्मसहस्राणि गवां दश महात्मना।
ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते ॥ 3-127-41(20835)
तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना।
वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः ॥ 3-127-42(20836)
तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान्।
शर्जन्निव महामेघः प्रमथ्य निहतः शरैः ॥ 3-127-43(20837)
प्रजाश्चतुर्विधास्तेन त्राता राजन्कृतात्मना।
तेनात्मतपसा लोकास्तापिताश्चातितेजसा ॥ 3-127-44(20838)
तस्यैतद्देवयजनं स्थानमादित्यवर्चसः।
यस्य पुण्यतमे देशे कुरुक्षेत्रेस्य मध्यतः ॥ 3-127-45(20839)
`तथा त्वमपि राजेन्द्र मान्धातेव महीपतिः।
धर्मं कृत्वा महीं रक्ष स्वर्गलोकं गमिष्यसि' ॥ 3-127-46(20840)
एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत्।
जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि ॥ 3-127-47(20841)
वैशम्पायन उवाच। 3-127-48x(2115)
एवमुक्तः स कौन्तेयो लोमशेन महर्षिणा।
पप्रच्छानन्तरं भूयः सोमकं प्रति भारत ॥ 3-127-48(20842)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-127-1 यौवनाश्वो युवनाश्वपुत्रः। यौवनाश्विर्नृपोत्तम इति क. पाठः ॥ 3-127-8 आत्मानं चित्तम्। आत्मवान् जितचित्तः। संयोज्येष्टदेवतया ऐवयं नीत्वा ॥ 3-127-10 सौद्युम्नेः युवनाश्वस्य ॥ 3-127-14 वाशतः शब्दं कुर्वतः ॥ 3-127-16 निर्वाणं तपःफलम् ॥ 3-127-25 इष्टिमिच्छितम् ॥ 3-127-30 किं धास्यति पास्यति स्तन्याभावात् ॥ 3-127-31 मां धास्यति मां धाता। धातेति लुडन्तस्य व्याख्यानं धास्यतीति। प्रदेशिनीं, तर्जनीम् ॥ 3-127-32 किष्कून् हस्तान् वितस्तीन्वा ॥ 3-127-36 चक्रमाज्ञा 3-127-38 चितचैत्यः कृतचयनक्रतुः ॥ 3-127-41 पद्मं शतकोटयस्तेषामपि सहस्राणि दश ॥ 3-127-44 चतुर्विधाः सुरनरतिर्यक्स्थावराः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.